पूर्वम्: ४।४।४३
अनन्तरम्: ४।४।४५
सूत्रम्
परिषदो ण्यः॥
४।४।४४
काशिका-वृत्तिः
परिषदो ण्यः
४।४।४४
परिषदः ण्यः प्रत्ययो भवति समवायान् समवैति इत्येतस्मिन् विषये। ठको ऽपवादः। परिषदं समवैति पारिषद्यः।
न्यासः
परिषदो ण्यः।
, ४।४।४४
बाल-मनोरमा
परिषदो ण्यः
१५७३, ४।४।४४
परिषदो ण्यः। द्वितीयान्तात्परिषच्छब्दात्समवैतीत्यर्थे ठगपवादो ण्य इत्यर्थः।